अथ श्रीकृष्ण द्वादश नाम स्तोत्रम् ।।
श्रीकृष्ण उवाच ।।किं ते नामसहस्रेण विज्ञातेन तवाऽर्जुन ।
तानि नामानि विज्ञाय नरः पापैः प्रमुच्यते ॥ १॥
प्रथमं तु हरिं विन्द्याद् द्वितीयं केशवं तथा ।
तृतीयं पद्मनाभं च चतुर्थं वामनं स्मरेत् ॥ २॥
पञ्चमं वेदगर्भं तु षष्ठं च मधुसूदनम् ।
सप्तमं वासुदेवं च वराहं चाऽष्टमं तथा ॥ ३॥
नवमं पुण्डरीकाक्षं दशमं तु जनार्दनम् ।
कृष्णमेकादशं विन्द्याद् द्वादशं श्रीधरं तथा ॥ ४॥
एतानि द्वादश नामानि विष्णुप्रोक्ते विधीयते ।
सायं-प्रातः पठेन्नित्यं तस्य पुण्यफलं शृणु ॥ ५॥
चान्द्रायण-सहस्राणि कन्यादानशतानि च ।
अश्वमेधसहस्राणि फलं प्राप्नोत्यसंशयः ॥ ६॥
अमायां पौर्णमास्यां च द्वादश्यां तु विशेषतः ।
प्रातःकाले पठेन्नित्यं सर्वपापैः प्रमुच्यते ॥ ७॥
॥ इति श्रीमन्महाभारतेऽरण्यपर्वणि कृष्णद्वादशनामस्तोत्रं सम्पूर्णम् ॥



Fascinating and enlightening. Wonderful content and so clearly and nicely presented. Much appreciated Krishna
जवाब देंहटाएंI am chanting Krishna Krishna is it correct does my health and financial will improve please send SMS to my mobile number 9703585932
जवाब देंहटाएं'OM namo naarayanaya'
जवाब देंहटाएं