अथ श्रीकृष्ण द्वादश मञ्जरी ।। Shri Krishna Dwadasha Manjari. - “भागवत कथा एवं राम कथा हेतु संपर्क करें" कथा के माध्यम से धर्म, भक्ति और संस्कारों का प्रचार”

Post Top Ad

अथ श्रीकृष्ण द्वादश मञ्जरी ।। Shri Krishna Dwadasha Manjari.

Share This
अथ श्रीकृष्ण द्वादश मञ्जरी - श्री श्रीधरवेंकटेशार्येण कृता ।।

दुराशान्धो-ऽमुष्मिन्विषय-विसरावर्तजठरे
तृणच्छन्ने कूपे तृणकबललुब्धः पशुरिव ।
पतित्वा खिद्येऽसावगतिरित उद्धृत्य कलयेः
कदा मां कृष्ण त्वत्पदकमललाभेन सुखितम् ॥ १॥

कथंचि-द्यच्चित्ते कमलभव-कामान्तकमुखाः
वहन्तो मज्जन्ति स्वय-मनवधौ हर्षजलधौ ।
क्व तद्दिव्य-श्रीमच्चरणकमलं कृष्ण भवतः
क्व चाहं तत्रेहा मम शुन इवा-खण्डलपदे ॥ २॥

दुरापस्त्वं कृष्ण स्मरहर-मुखानां तदपि ते
क्षतिः का कारुण्या-दगतिरिति मां लालयसि चेत् ।
प्रपश्यन् रथ्यायां शिशु-मगति-मुद्दामरुदितं
न सम्राडप्यङ्गे दधदुरुदयस्सान्त्वयति किम् ॥ ३॥

प्रतिश्वासं नेतुं प्रयतनधुरीणः पितृपतिः
विपत्तीनां व्यक्तं विहरणमिदं तु प्रतिपदम् ।
तथा हेयव्यूहा तनुरियमिहा-थाप्य्भिरमे
हतात्मा कृष्णैतां कुमति-मपहन्या मम कदा ॥ ४॥

विधीशाराध्यस्त्वं प्रणय-विनयाभ्यां भजसि यान्
प्रियस्ते यत्सेवी विमत इतरस्तेषु तृणधीः ।
किमन्य-त्सर्वापि त्वदनभिमतैव स्थितिरहो
दुरात्मैवं ते स्यां यदुवर दयार्हाः कथमहम् ॥ ५॥

विनिन्द्यत्वे तुल्याधिक-विरहिता य खलु खलाः
तथा भूतं कृत्यं यदपि सह तैरेव वसतिः ।
तदेवानुष्ठेयं मम भवति नेहास्त्यरुचिर-
प्यहो धिङ्मां कुर्वे किमिव न दया कृष्ण मयि ते ॥ ६॥

त्वदाख्या-भिख्यान त्वदमल-गुणास्वादन भवत्-
सपर्यायासक्ता जगति कति वाऽऽनन्दजलधौ ।
न खेलन्त्येवं दुर्व्यसन-हुतभुग्गर्भ-पतित-
स्त्वहं सीदाम्येको यदुवर दयेथा मम कदा ॥ ७॥

कद वा निर्हेतून्मिषित-करुणालिङ्गितभवत्-
कटाक्षालब्धेन व्यसनगहना-न्निर्गत इतः ।
हताशेष-ग्लानिन्यमृतरस-निष्यन्दशिशिरे
सुखं पादांभोजे यदुवर कदासानि विहरन् ॥ ८॥

अनित्यत्वं जान-न्नतिदृढ-मदर्पस्सविनयः
स्वके दोषेऽभिज्ञः परजुषि तु मूढस्सकरुणः ।
सतां दासश्शान्त-स्सममति-रजस्रं तव यथा
भजेयं पादाब्जं यदुवर दयेथा मम कदा ॥ ९॥

करालं दावाग्निं कबलितवता देव भवता
परित्राता गोपाः परमकृपया किन्न हि पुरा ।
मदीयान्तर्वैरिप्रकर-दहनं किं कबलयन्
दयासिन्धो गोपीदयित वद गोपायसि न माम् ॥ १०॥

न भीरारुह्यांस नदति शमने नाप्युदयते
जुगुप्सा देहस्याशुचिनिचयभावे स्पुटतरे ।
अपि व्रीडा नोदेत्यवमतिशते सत्यनुपदं
क्व मे स्यात्तवभक्तिः कथमिव कृपा कृष्ण मयि ते ॥ ११॥

बलीयस्यत्यन्तं मदघपटली तद्यदुपते
परित्रातुं नो मां प्रभवसि तथा नो दमयितुम् ।
अलाभादर्तीनामिदमनुगुणानामदयिते
कियद्दौस्थ्यं धिङ्मां त्वयि विमतमात्मद्रुहमिमम् ॥ १२॥


॥ इति श्री श्रीधरवेङ्कटेशार्येणकृता कृष्णद्वादशमञ्जरी समाप्ता ॥

No comments:

Post a Comment

Post Bottom Ad

Pages