अथ श्रीमहालक्ष्मी ललितास्तोत्रम् ।। - “भागवत कथा एवं राम कथा हेतु संपर्क करें" कथा के माध्यम से धर्म, भक्ति और संस्कारों का प्रचार”

Post Top Ad

अथ श्रीमहालक्ष्मी ललितास्तोत्रम् ।।

Share This
अथ श्रीमहालक्ष्मी ललितास्तोत्रम् ।। Shri Mahalakshmi Lalita Stotram.
 Mata Mahalakshmi


          ॥ ध्यानम् ॥

चक्राकारं महत्तेजः तन्मध्ये परमेश्वरी ।
जगन्माता जीवदात्री नारायणी परमेश्वरी ॥ १ ॥

व्यूहतेजोमयी ब्रह्मानन्दिनी हरिसुन्दरी ।
पाशांकुशेक्षुकोदण्ड पद्ममालालसत्करा ॥ २ ॥

दृष्ट्वा तां मुमुहुर्देवाः प्रणेमुर्विगतज्वराः ।
तुष्टुवुः श्रीमहालक्ष्मीं ललितां वैष्णवीं पराम् ॥ ३ ॥

         ॥ श्रीदेवाः ऊचुः ॥

जय लक्ष्मि जगन्मातः जय लक्ष्मि परात्परे ।
जय कल्याणनिलये जय सर्वकलात्मिके ॥ १ ॥

जय ब्राह्मि महालक्ष्मि ब्रहात्मिके परात्मिके ।
जय नारायणि शान्ते जय श्रीललिते रमे ॥ २ ॥

जय श्रीविजये देवीश्वरि श्रीदे जयर्द्धिदे ।
नमः सहस्र शीर्षायै सहस्त्रानन लोचने ॥ ३ ॥

नमः सहस्रहस्ताब्जपादपङ्कजशोभिते ।
अणोरणुतरे लक्ष्मि महतोऽपि महीयसि ॥ ४ ॥

अतलं ते स्मृतौ पादौ वितलं जानुनी तव ।
रसातलं कटिस्ते च कुक्षिस्ते पृथिवी मता ॥ ५ ॥

हृदयं भुवः स्वस्तेऽस्तु मुखं सत्यं शिरो मतम् ।
दृशश्चन्द्रार्कदहना दिशः कर्णा भुजः सुराः ॥ ६ ॥

मरुतस्तु तवोच्छ्वासा वाचस्ते श्रुतयो मताः ।
क्रिडा ते लोकरचना सखा ते परमेश्वरः ॥ ७ ॥

आहारस्ते सदानन्दो वासस्ते हृदयो हरेः ।
दृश्यादृश्यस्वरूपाणि रूपाणि भुवनानि ते ॥ ८ ॥

शिरोरुहा घनास्ते वै तारकाः कुसुमानि ते ।
धर्माद्या बाहवस्ते च कालाद्या हेतयस्तव ॥ ९ ॥

यमाश्च नियमाश्चापि करपादनखास्तव ।
स्तनौ स्वाहास्वधाकारौ सर्वजीवनदुग्धदौ ॥ १० ॥

प्राणायामस्तव श्वासो रसना ते सरस्वती ।
महीरुहास्तेऽङ्गरुहाः प्रभातं वसनं तव ॥ ११ ॥

आदौ दया धर्मपत्नी ससर्ज निखिलाः प्रजाः ।
हृत्स्था त्वं व्यापिनी लक्ष्मीः मोहिनी त्वं तथा परा ॥ १२ ॥

इदानीं दृश्यसे ब्राह्मी नारायणी प्रियशङ्करी ।
नमस्तस्यै महालक्ष्म्यै गजमुख्यै नमो नमः ॥ १३ ॥

सर्वशक्त्यै सर्वधात्र्यै महालक्ष्म्यै नमो नमः ।
या ससर्ज विराजं च ततोऽजं विष्णुमीश्वरम् ॥ १४ ॥

रुदं तथा सुराग्रयाँश्च तस्यै लक्ष्म्यै नमो नमः ।
त्रिगुणायै निर्गुणायै हरिण्यै ते नमो नमः ॥ १५ ॥

यन्त्रतन्त्रात्मिकायै ते जगन्मात्रे नमो नमः ।
वाग्विभूत्यै गुरुतन्व्यै महालक्ष्म्यै नमो नमः ॥ १६ ॥

कम्भरायै सर्वविद्याभरायै ते नमो नमः ।
जयाललितापाञ्चाली रमातन्वै नमो नमः ॥ १७ ॥

पद्मावतीरमाहंसी सुगुणाऽऽज्ञाश्रियै नमः ।
नमः स्तुता प्रसनैवंछन्दयामास सव्दरैः ॥ १८ ॥

॥ फल श्रुति श्री लक्ष्मी उवाच ॥

स्तावका मे भविश्यन्ति श्रीयशोधर्मसम्भृताः ।
विद्याविनयसम्पन्ना निरोगा दीर्घजीविनः ॥ १ ॥

पुत्रमित्रकलत्राढ्या भविष्यन्ति सुसम्पदः ।
पठनाच्छ्रवणादस्य शत्रुभीतिर्विनश्यति ॥ २ ॥

राजभीतिः कदनानि विनश्यन्ति न संशयः ।
भुक्तिं मुक्तिं भाग्यमृद्धिमुत्तमां च लभेन्नरः ॥ ३ ॥

॥ श्रीलक्ष्मीनारायणसंहितायां देवसङ्घकृता श्रीमहालक्ष्मीललितास्तोत्रम् ॥

2 comments:

  1. Jai maa laitha. This <>a href="https://rambhaj.com/lalita-mahalakshmi-stotra/"stotra is very powerful and effective for a good life.

    ReplyDelete
    Replies
    1. This stotra> is very powerful and effective for a good life.

      Delete

Post Bottom Ad

Pages